कोटिरुद्र संहिता

अध्याय 34: विष्णु द्वारा सहस्र कमलों से हरीश्वर की पूजा

इति श्रीशिव महापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥

35 श्लोक · 34 में से 43

इस अध्याय में क्या होता है

विष्णु द्वारा सहस्र कमलों से हरीश्वर की पूजा

ऋषि हरीश्वर लिंग और विष्णु को सुदर्शन चक्र मिलने की कथा पूछते हैं। एक समय बलवान दैत्य लोकों को सताने लगे, और देव विष्णु के पास आए। विष्णु कैलास जाकर पार्थिव लिंग, मन्त्रों और स्तोत्रों से गिरीश को पूजने लगे, इस निश्चय से कि प्रसन्न होने तक वहीं रहेंगे। फिर भी हर प्रकट नहीं हुए। तब विष्णु ने सहस्र नामों में से हर नाम के साथ एक कमल चढ़ाया। परीक्षा के लिए शिव ने एक कमल छिपाया, और विष्णु ने एक कम पाया। अन्त में प्रसन्न शिव ने प्रकट होकर इच्छा पूछी। विष्णु ने कहा कि दैत्य जगत को कुचल रहे हैं और उनका आयुध नहीं चलता। शिव ने उन्हें चक्र दिया, जिससे विष्णु ने दैत्यों को मार दिया। ऋषि सहस्र नाम सुनना चाहते हैं।

व्यास उवाच

34.1

इति श्रुत्वा वचस्तस्य सूतस्य च मुनीश्वराः ।
समूचुस्तं सुप्रशस्य लोकानां हितकाम्यया

iti śrutvā vacastasya sūtasya ca munīśvarāḥ |
samūcustaṃ supraśasya lokānāṃ hitakāmyayā

ऋषय ऊचुः

34.2

सूत सर्वं विजानासि ततः पृच्छामहे वयम् ।
हरीश्वरस्य लिंगस्य महिमानं वद प्रभो

sūta sarvaṃ vijānāsi tataḥ pṛcchāmahe vayam |
harīśvarasya liṃgasya mahimānaṃ vada prabho

34.3

चक्रं सुदर्शनं प्राप्तं विष्णुनेति श्रुतं पुरा ।
तदाराधनतस्तात तत्कथा च विशेषतः

cakraṃ sudarśanaṃ prāptaṃ viṣṇuneti śrutaṃ purā |
tadārādhanatastāta tatkathā ca viśeṣataḥ

सूत उवाच

34.4

श्रूयतां च ऋषिश्रेष्ठा हरीश्वरकथा शुभा ।
यतस्सुदर्शनं लब्धं विष्णुना शंकरात्पुरा

śrūyatāṃ ca ṛṣiśreṣṭhā harīśvarakathā śubhā |
yatassudarśanaṃ labdhaṃ viṣṇunā śaṃkarātpurā

34.5

कस्मिंश्चित्समये दैत्याः संजाता बलवत्तराः ।
लोकांस्ते पीडयामासुर्धर्मलोपं च चक्रिरे

kasmiṃścitsamaye daityāḥ saṃjātā balavattarāḥ |
lokāṃste pīḍayāmāsurdharmalopaṃ ca cakrire

34.6

ते देवाः पीडिता दैत्यैर्महाबलपराक्रमैः ।
स्वं दुखं कथयामासुर्विष्णुं निर्जररक्षकम्

te devāḥ pīḍitā daityairmahābalaparākramaiḥ |
svaṃ dukhaṃ kathayāmāsurviṣṇuṃ nirjararakṣakam

देवा ऊचुः

34.7

कृपां कुरु प्रभो त्वं च दैत्यैस्संपीडिता भृशम् ।
कुत्र यामश्च किं कुर्मश्शरण्यं त्वां समाश्रिताः

kṛpāṃ kuru prabho tvaṃ ca daityaissaṃpīḍitā bhṛśam |
kutra yāmaśca kiṃ kurmaśśaraṇyaṃ tvāṃ samāśritāḥ

सूत उवाच

34.8

इत्येवं वचनं श्रुत्वा देवानां दुःखितात्मनाम् ।
स्मृत्वा शिवपदांभोजं विष्णुर्वचनमब्रवीत

ityevaṃ vacanaṃ śrutvā devānāṃ duḥkhitātmanām |
smṛtvā śivapadāṃbhojaṃ viṣṇurvacanamabravīta

विष्णुरुवाच

34.9

करिष्यामि च वः कार्य्यमाराध्य गिरिशं सुराः ।
बलिष्ठाश्शत्रवो ह्येते विजेतव्याः प्रयत्नतः

kariṣyāmi ca vaḥ kāryyamārādhya giriśaṃ surāḥ |
baliṣṭhāśśatravo hyete vijetavyāḥ prayatnataḥ

सूत उवाच

34.10

इत्युक्तास्ते सुरास्सर्वे विष्णुना प्रभविष्णुना ।
मत्वा दैत्यान्हतान्दुष्टान्ययुर्धाम स्वकंस्वकम्

ityuktāste surāssarve viṣṇunā prabhaviṣṇunā |
matvā daityānhatānduṣṭānyayurdhāma svakaṃsvakam

34.11

विष्णुरप्यमराणां तु जयार्थमभजच्छिवम् ।
सर्वामराणामधिपं सर्वसाक्षिणमव्ययम्

viṣṇurapyamarāṇāṃ tu jayārthamabhajacchivam |
sarvāmarāṇāmadhipaṃ sarvasākṣiṇamavyayam

34.12

गत्वा कैलासनिकटे तपस्तेपे हरिस्स्वयम् ।
कृत्वा कुंडं च संस्थाप्य जातवेदसमग्रतः

gatvā kailāsanikaṭe tapastepe harissvayam |
kṛtvā kuṃḍaṃ ca saṃsthāpya jātavedasamagrataḥ

34.13

पार्थिवेन विधानेन मंत्रैर्नानाविधैरपि ।
स्तोत्रैश्चैवाप्यनेकैश्च गिरिशं चाभजन्मुदा

pārthivena vidhānena maṃtrairnānāvidhairapi |
stotraiścaivāpyanekaiśca giriśaṃ cābhajanmudā

34.14

कमलैस्सरसो जातैर्मानसाख्यान्मुनीश्वराः ।
बद्ध्वा चैवासनं तत्र न चचाल हरिस्स्वयम्

kamalaissaraso jātairmānasākhyānmunīśvarāḥ |
baddhvā caivāsanaṃ tatra na cacāla harissvayam

34.15

प्रसादावधि चैवात्र स्थेयं वै सर्वथा मया ।
इत्येवं निश्चयं कृत्वा समानर्च शिवं हरिः

prasādāvadhi caivātra stheyaṃ vai sarvathā mayā |
ityevaṃ niścayaṃ kṛtvā samānarca śivaṃ hariḥ

34.16

यदा नैव हरस्तुष्टो बभूव हरये द्विजाः ।
तदा स भगवान्विष्णुर्विचारे तत्परोऽभवत्

yadā naiva harastuṣṭo babhūva haraye dvijāḥ |
tadā sa bhagavānviṣṇurvicāre tatparo'bhavat

34.17

विचार्यैवं स्वमनसि सेवनं बहुधा कृतम् ।
तथापि न हरस्तुष्टो बभूवोतिकरः प्रभुः

vicāryaivaṃ svamanasi sevanaṃ bahudhā kṛtam |
tathāpi na harastuṣṭo babhūvotikaraḥ prabhuḥ

34.18

ततस्तु विस्मितो विष्णुर्भक्त्या परमयान्वितः
सहस्रैर्नामभिः प्रीत्या तुष्टाव परमेश्वरम्

tatastu vismito viṣṇurbhaktyā paramayānvitaḥ
sahasrairnāmabhiḥ prītyā tuṣṭāva parameśvaram

34.19

प्रत्येकं कमलं तस्मै नाममंत्रमुदीर्य च ।
पूजयामास वै शंभुं शरणागतवत्सलम्

pratyekaṃ kamalaṃ tasmai nāmamaṃtramudīrya ca |
pūjayāmāsa vai śaṃbhuṃ śaraṇāgatavatsalam

34.20

परीक्षार्थं विष्णुभक्तेस्तदा वै शंकरेण ह ।
कमलानां सहस्रात्तु हृतमेकं च नीरजम्

parīkṣārthaṃ viṣṇubhaktestadā vai śaṃkareṇa ha |
kamalānāṃ sahasrāttu hṛtamekaṃ ca nīrajam

34.21

न ज्ञातं विष्णुना तच्च मायाकारणमद्भुतम् ।
न्यूनं तच्चापि सञ्ज्ञाय तदन्वेषणतत्परः

na jñātaṃ viṣṇunā tacca māyākāraṇamadbhutam |
nyūnaṃ taccāpi sañjñāya tadanveṣaṇatatparaḥ

34.22

बभ्राम सकलां पृथ्वीं तत्प्रीत्यै सुदृढव्रतः ।
तदप्राप्य विशुद्धात्मा नेत्रमेकमुदाहरत्

babhrāma sakalāṃ pṛthvīṃ tatprītyai sudṛḍhavrataḥ |
tadaprāpya viśuddhātmā netramekamudāharat

34.23

तं दृष्ट्वा स प्रसन्नोऽभूच्छंकरस्सर्वदुःखहा ।
आविर्बभूव तत्रैव जगाद वचनं हरिम्

taṃ dṛṣṭvā sa prasanno'bhūcchaṃkarassarvaduḥkhahā |
āvirbabhūva tatraiva jagāda vacanaṃ harim

शिव उवाच

34.24

प्रसन्नोऽस्मि हरे तुभ्यं वरं ब्रूहि यथेप्सितम् ।
मनोऽभिलषितं दद्मि नादेयं विद्यते तव

prasanno'smi hare tubhyaṃ varaṃ brūhi yathepsitam |
mano'bhilaṣitaṃ dadmi nādeyaṃ vidyate tava

सूत उवाच

34.25

तच्छ्रुत्वा शंभुवचनं केशवः प्रीतमानसः ।
महाहर्षसमापन्नो ह्यब्रवीत्सांजलिश्शिवम्

tacchrutvā śaṃbhuvacanaṃ keśavaḥ prītamānasaḥ |
mahāharṣasamāpanno hyabravītsāṃjaliśśivam

विष्णुरुवाच

34.26

वाच्यं किं मे त्वदग्रे वै ह्यन्तर्यामी त्वमास्थितः ।
तथापि कथ्यते नाथ तव शासनगौरवात्

vācyaṃ kiṃ me tvadagre vai hyantaryāmī tvamāsthitaḥ |
tathāpi kathyate nātha tava śāsanagauravāt

34.27

दैत्यैश्च पीडितं विश्वं सुखं नो नस्सदा शिव ।
दैत्यान्हंतुं मम स्वामिन्स्वायुधं न प्रवर्त्तते

daityaiśca pīḍitaṃ viśvaṃ sukhaṃ no nassadā śiva |
daityānhaṃtuṃ mama svāminsvāyudhaṃ na pravarttate

34.28

किं करोमि क्व गच्छामि नान्यो मे रक्षकः परः ।
अतोऽहं परमेशान शरणं त्वां समागतः

kiṃ karomi kva gacchāmi nānyo me rakṣakaḥ paraḥ |
ato'haṃ parameśāna śaraṇaṃ tvāṃ samāgataḥ

सूत उवाच

34.29

इत्युक्त्वा च नमस्कृत्य शिवाय परमात्मने ।
स्थितश्चैवाग्रतश्शंभोः स्वयं च पुरुपीडितः

ityuktvā ca namaskṛtya śivāya paramātmane |
sthitaścaivāgrataśśaṃbhoḥ svayaṃ ca purupīḍitaḥ

34.30

इति श्रुत्वा वचो विष्णोर्देवदेवो महेश्वरः ।
ददौ तस्मै स्वकं चक्रं तेजोराशिं सुदर्शनम्

iti śrutvā vaco viṣṇordevadevo maheśvaraḥ |
dadau tasmai svakaṃ cakraṃ tejorāśiṃ sudarśanam

34.31

तत्प्राप्य भगवान्विष्णुर्दैत्यांस्तान्बलवत्तरान् ।
जघान तेन चक्रेण द्रुतं सर्वान्विना श्रमम्

tatprāpya bhagavānviṣṇurdaityāṃstānbalavattarān |
jaghāna tena cakreṇa drutaṃ sarvānvinā śramam

34.32

जगत्स्वास्थ्यं परं लेभे बभूवुस्सुखिनस्सुराः ।
सुप्रीतः स्वायुधं प्राप्य हरिरासीन्महासुखी

jagatsvāsthyaṃ paraṃ lebhe babhūvussukhinassurāḥ |
suprītaḥ svāyudhaṃ prāpya harirāsīnmahāsukhī

ऋषय ऊचुः

34.33

किं तन्नामसहस्रं वै कथय त्वं हि शांकरम् ।
येन तुष्टो ददौ चक्रं हरये स महेश्वरः

kiṃ tannāmasahasraṃ vai kathaya tvaṃ hi śāṃkaram |
yena tuṣṭo dadau cakraṃ haraye sa maheśvaraḥ

34.34

तन्माहात्म्यम्मम ब्रूहि शिवसंवादपूर्वकम् ।
कृपालुत्वं च शंभोर्हि विष्णूपरि यथातथम्

tanmāhātmyammama brūhi śivasaṃvādapūrvakam |
kṛpālutvaṃ ca śaṃbhorhi viṣṇūpari yathātatham

व्यास उवाच

34.35

इति तेषां वचश्श्रुत्वा मुनीनां भावितात्मनाम् ।
स्मृत्वा शिवपदांभोजं सूतो वचनमब्रवीत्

iti teṣāṃ vacaśśrutvā munīnāṃ bhāvitātmanām |
smṛtvā śivapadāṃbhojaṃ sūto vacanamabravīt

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)