उत्तरकाण्ड

सर्ग 51: भृगु का शाप और दुर्वासा की भविष्यवाणी

31 श्लोक · 51 में से 111

इस अध्याय में क्या होता है

भृगु का शाप और दुर्वासा की भविष्यवाणी

सुमन्त्र लक्ष्मण को वह बात बताते हैं जो उन्होंने सुनी थी। अत्रि-पुत्र दुर्वासा वसिष्ठ के आश्रम में ठहरे थे; दशरथ ने वहाँ पूछा कि मेरा वंश कब तक चलेगा। दुर्वासा ने एक पुरानी कथा सुनाई। देवासुर संग्राम में दैत्यों ने भृगु की पत्नी की शरण ली, तो भगवान विष्णु ने चक्र से उनका सिर काट दिया। भृगु ने शाप दिया कि तुम मनुष्य लोक में जन्म लोगे और लम्बे समय तक पत्नी-वियोग सहोगे; लोकहित के लिए भगवान ने शाप स्वीकार किया। दुर्वासा ने कहा कि वही श्रीराम हैं। वे ग्यारह हजार वर्ष अयोध्या पर राज करेंगे; सीता अयोध्या से दूर उनके दो पुत्रों को जन्म देंगी। लक्ष्मण को धीरज मिलता है और वे केशिनी में रुकते हैं।

51.1

तथा सञ्चोदितः सूतो लक्ष्मणेन महात्मना ।
तद्वाक्यमृषिणा प्रोक्तं व्याहर्तुमुपचक्रमे

tathā sañcoditaḥ sūto lakṣmaṇena mahātmanā |
tadvākyamṛṣiṇā proktaṃ vyāhartumupacakrame

51.2

पुरा नाम्ना हि दुर्वासा अत्रेः पुत्रो महामुनिः ।
वसिष्ठस्याश्रमे पुण्ये वार्षिक्यं समुवास ह

purā nāmnā hi durvāsā atreḥ putro mahāmuniḥ |
vasiṣṭhasyāśrame puṇye vārṣikyaṃ samuvāsa ha

51.3

तमाश्रमं महातेजाः पिता ते सुमहायशाः ।
पुरोहितं महात्मानं दिदृक्षुरगमस्त्वयम्

tamāśramaṃ mahātejāḥ pitā te sumahāyaśāḥ |
purohitaṃ mahātmānaṃ didṛkṣuragamastvayam

51.4

स दृष्ट्वा सूर्यसङ्काशं ज्वलन्तमिव तेजसा ।
उपविष्टं वसिष्ठस्य सव्यपार्श्वे महामुनिम्

sa dṛṣṭvā sūryasaṅkāśaṃ jvalantamiva tejasā |
upaviṣṭaṃ vasiṣṭhasya savyapārśve mahāmunim

51.5

तौ मुनी तापसश्रेष्ठौ विनीतो ह्यभिवादयत् ।
स ताभ्यां पूजितो राजा स्वागतेनासनेन च ॥
पाद्येन फलमूलैश्च उवास मुनिभिः सह

tau munī tāpasaśreṣṭhau vinīto hyabhivādayat |
sa tābhyāṃ pūjito rājā svāgatenāsanena ca ||
pādyena phalamūlaiśca uvāsa munibhiḥ saha

51.6

तेषां तत्रोपविष्टानां तास्ताः सुमधुराः कथाः ।
बभूवुः परमर्षीणां मध्यादित्यगते ऽहनि

teṣāṃ tatropaviṣṭānāṃ tāstāḥ sumadhurāḥ kathāḥ |
babhūvuḥ paramarṣīṇāṃ madhyādityagate 'hani

51.7

ततः कथायां कस्याञ्चित्प्राञ्जलिः प्रग्रहो नृपः ।
उवाच तं महात्मानमत्रेः पुत्रं तपोधनम्

tataḥ kathāyāṃ kasyāñcitprāñjaliḥ pragraho nṛpaḥ |
uvāca taṃ mahātmānamatreḥ putraṃ tapodhanam

51.8

भगवन्किं प्रमाणेन मम वंशो भविष्यति ।
किमायुश्च हि मे रामः पुत्राश्चान्ये किमायुषः

bhagavankiṃ pramāṇena mama vaṃśo bhaviṣyati |
kimāyuśca hi me rāmaḥ putrāścānye kimāyuṣaḥ

51.9

रामस्य च सुता ये स्युस्तेषामायुः कियद्भवेत् ।
काम्यया भगवन्बूहि वंशस्यास्य गतिं मम

rāmasya ca sutā ye syusteṣāmāyuḥ kiyadbhavet |
kāmyayā bhagavanbūhi vaṃśasyāsya gatiṃ mama

51.10

तच्छ्रुत्वा व्याहृतं वाक्यं राज्ञो दशरथस्य च ।
दुर्वासाः सुमहातेजा व्याहर्तुमुपचक्रमे

tacchrutvā vyāhṛtaṃ vākyaṃ rājño daśarathasya ca |
durvāsāḥ sumahātejā vyāhartumupacakrame

51.11

शृणु राजन्पुरावृत्तं तदा देवासुरे युधि ।
दैत्याः सुरैर्भर्त्स्यमाना भृगुपत्नीं समाश्रिताः

śṛṇu rājanpurāvṛttaṃ tadā devāsure yudhi |
daityāḥ surairbhartsyamānā bhṛgupatnīṃ samāśritāḥ

51.12

तया दत्ताभयास्तत्र न्यवसन्नभयास्तदा

tayā dattābhayāstatra nyavasannabhayāstadā

51.13

तया परिगृहीतांस्तान्दृष्ट्वा क्रुद्धः सुरेश्वरः ।
चक्रेण शितधारेण भृगुपत्न्याः शिरो ऽहरत्

tayā parigṛhītāṃstāndṛṣṭvā kruddhaḥ sureśvaraḥ |
cakreṇa śitadhāreṇa bhṛgupatnyāḥ śiro 'harat

51.14

ततस्तां निहतां दृष्ट्वा पत्नीं भृगुकुलोद्वहः ।
शशाप सहसा क्रुद्धो विष्णुं रिपुकुलार्दनम्

tatastāṃ nihatāṃ dṛṣṭvā patnīṃ bhṛgukulodvahaḥ |
śaśāpa sahasā kruddho viṣṇuṃ ripukulārdanam

51.15

यस्मादवध्यां मे पत्नीमवधीः क्रोधमूर्च्छितः ।
तस्मात्त्वं मानुषे लोके जनिष्यसि जनार्दन

yasmādavadhyāṃ me patnīmavadhīḥ krodhamūrcchitaḥ |
tasmāttvaṃ mānuṣe loke janiṣyasi janārdana

51.16

तत्र पत्नीवियोगं त्वं प्राप्स्यसे बहुवार्षिकम्

tatra patnīviyogaṃ tvaṃ prāpsyase bahuvārṣikam

51.17

शापाभिहतचेतास्स स्वात्मना भावितो ऽभवत्

śāpābhihatacetāssa svātmanā bhāvito 'bhavat

51.19

अर्चयामास तं देवं भृगुः शापेन पीडितः ।
तपसाराधितो देवो ह्यब्रवीद्भक्तवत्सलः ।
लोकानां संहितार्थं तु तं शापं ग्राह्यमुक्तवान्

arcayāmāsa taṃ devaṃ bhṛguḥ śāpena pīḍitaḥ |
tapasārādhito devo hyabravīdbhaktavatsalaḥ |
lokānāṃ saṃhitārthaṃ tu taṃ śāpaṃ grāhyamuktavān

51.20

इति शप्तो महातेजा भृगुणा पूर्वजन्मनि ।
इहागतो हि पुत्रत्वं तव पार्थिवसत्तम

iti śapto mahātejā bhṛguṇā pūrvajanmani |
ihāgato hi putratvaṃ tava pārthivasattama

51.21

राम इत्यभिविख्यातस्त्रिषु लोकेषु मानद ।
तत्फलं प्राप्स्यते चापि भृगुशापकृतं महत्

rāma ityabhivikhyātastriṣu lokeṣu mānada |
tatphalaṃ prāpsyate cāpi bhṛguśāpakṛtaṃ mahat

51.22

अयोध्यायाः पती रामो दीर्घकालं भविष्यति ।
सुखिनश्च समृद्धाश्च भविष्यन्त्यस्य ये ऽनुगाः

ayodhyāyāḥ patī rāmo dīrghakālaṃ bhaviṣyati |
sukhinaśca samṛddhāśca bhaviṣyantyasya ye 'nugāḥ

51.23

दश वर्षसहस्राणि दश वर्षशतानि च ।
रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति

daśa varṣasahasrāṇi daśa varṣaśatāni ca |
rāmo rājyamupāsitvā brahmalokaṃ gamiṣyati

51.24

समृद्धैश्चाश्वमेधैश्च इष्ट्वा परमदुर्जयः ।
राजवंशांश्च बहुशो बहून्संस्थापयिष्यति

samṛddhaiścāśvamedhaiśca iṣṭvā paramadurjayaḥ |
rājavaṃśāṃśca bahuśo bahūnsaṃsthāpayiṣyati

51.25

द्वौ पुत्रौ तु भविष्येते सीतायां राघवस्य तु ।
अन्यत्र न त्वयोध्यायां सत्यमेतन्नसंशयः

dvau putrau tu bhaviṣyete sītāyāṃ rāghavasya tu |
anyatra na tvayodhyāyāṃ satyametannasaṃśayaḥ

51.26

सीतायाश्च ततः पुत्रावभिषेक्ष्यति राघवः

sītāyāśca tataḥ putrāvabhiṣekṣyati rāghavaḥ

51.27

स सर्वमखिलं राज्ञो वंशस्याह गतागतम् ।
आख्याय सुमहातेजास्तूष्णीमासीन्महामुनिः

sa sarvamakhilaṃ rājño vaṃśasyāha gatāgatam |
ākhyāya sumahātejāstūṣṇīmāsīnmahāmuniḥ

51.28

तूष्णीम्भूते तदा तस्मिन्राजा दशरथो मुनौ ।
अभिवाद्य महात्मानौ पुनरायात्पुरोत्तमम्

tūṣṇīmbhūte tadā tasminrājā daśaratho munau |
abhivādya mahātmānau punarāyātpurottamam

51.29

एतद्वचो मया तत्र मुनिना व्याहृतं पुरा ।
श्रुतं हृदि च निक्षिप्तं नान्यथा तद्भविष्यति

etadvaco mayā tatra muninā vyāhṛtaṃ purā |
śrutaṃ hṛdi ca nikṣiptaṃ nānyathā tadbhaviṣyati

51.30

एवं गते न सन्तापं कर्तुमर्हसि राघव ।
सीतार्थे राघवार्थे वा दृढो भव नरोत्तम

evaṃ gate na santāpaṃ kartumarhasi rāghava |
sītārthe rāghavārthe vā dṛḍho bhava narottama

51.31

श्रुत्वा तु व्याहृतं वाक्यं सूतस्य परमाद्भुतम् ।
प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत्

śrutvā tu vyāhṛtaṃ vākyaṃ sūtasya paramādbhutam |
praharṣamatulaṃ lebhe sādhu sādhviti cābravīt

51.32

ततः संवदतोरेवं सूतलक्ष्मणयोः पथि ।
अस्तमर्के गते वासं केशिन्यां तावथोषतुः

tataḥ saṃvadatorevaṃ sūtalakṣmaṇayoḥ pathi |
astamarke gate vāsaṃ keśinyāṃ tāvathoṣatuḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)