अयोध्याकाण्ड

सर्ग 89: गुह की नौकाएँ सेना को गंगा पार कराती हैं

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोननवतितम: सर्ग: ॥ ८९ ॥

22 श्लोक · 89 में से 119

इस अध्याय में क्या होता है

गुह की नौकाएँ सेना को गंगा पार कराती हैं

गंगा तट पर रात बिताकर भरत प्रातः उठते हैं और शत्रुघ्न से गुह को बुलाने को कहते हैं, वही सेना को पार कराएँगे। गुह आकर पूछते हैं कि रात सुख से बीती या नहीं। भरत धन्यवाद देकर नौकाएँ माँगते हैं। गुह शीघ्र नगर लौटकर बन्धुओं को बुलाते हैं, और पाँच सौ नौकाएँ लाई जाती हैं। भरत के लिए वे स्वस्तिक-चिह्नित, श्वेत कम्बलों से ढकी, मंगल-वाद्यों से गूँजती सुन्दर नाव लाते हैं। भरत, शत्रुघ्न, कौसल्या, सुमित्रा, वसिष्ठ और अन्य माताएँ उस पर चढ़ते हैं। मल्लाहों की चलाई नौकाओं में सेना पार उतरती है; हाथी ध्वजाओं सहित तैरकर पार होते हैं, और कुछ लोग बेड़ों और घड़ों के सहारे। प्रयाग के पास उतरकर भरत सेना को ठहराते हैं और ऋत्विजों के साथ पैदल महर्षि भरद्वाज के दर्शन को जाते हैं।

89.1

व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघव: ।
भरत: काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत्

vyuṣya rātriṃ tu tatraiva gaṅgākūle sa rāghava: |
bharata: kālyamutthāya śatrughnamidamabravīt

89.2

शत्रुघ्नोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् ।
शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम्

śatrughnottiṣṭha kiṃ śeṣe niṣādādhipatiṃ guham |
śīghramānaya bhadraṃ te tārayiṣyati vāhinīm

89.3

जागर्मि नाहं स्वपिमि तमेवार्य्यं विचिन्तयन् ।
इत्येवमब्रवीद्भ्रात्रा शत्रुघ्नोपि प्रचोदित:

jāgarmi nāhaṃ svapimi tamevāryyaṃ vicintayan |
ityevamabravīdbhrātrā śatrughnopi pracodita:

89.4

इति संवदतोरेवमन्योन्यं नरसिंहयो: ।
आगम्य प्राञ्जलि: काले गुहो भरतमब्रवीत्

iti saṃvadatorevamanyonyaṃ narasiṃhayo: |
āgamya prāñjali: kāle guho bharatamabravīt

89.5

कच्चित्सुखं नदीतीरे ऽवात्सी: काकुत्स्थ शर्वरीम् ।
कच्चित्ते सहसैन्यस्य तावत्सर्वमनामयम्

kaccitsukhaṃ nadītīre 'vātsī: kākutstha śarvarīm |
kaccitte sahasainyasya tāvatsarvamanāmayam

89.6

गुहस्य तत्तु वचनं श्रुत्वा स्नेहादुदीरितम् ।
रामस्यानुवशो वाक्यं भरतो ऽपीदमब्रवीत्

guhasya tattu vacanaṃ śrutvā snehādudīritam |
rāmasyānuvaśo vākyaṃ bharato 'pīdamabravīt

89.7

सुखा न: शर्वरी राजन् पूजिताश्चापि ते वयम् ।
गङ्गां तु नौभिर्बह्वीभिर्दाशा: सन्तारयन्तु न:

sukhā na: śarvarī rājan pūjitāścāpi te vayam |
gaṅgāṃ tu naubhirbahvībhirdāśā: santārayantu na:

89.8

ततो गुह: संत्वरितं श्रुत्वा भरतशासनम् ।
प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत्

tato guha: saṃtvaritaṃ śrutvā bharataśāsanam |
pratipraviśya nagaraṃ taṃ jñātijanamabravīt

89.9

उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु च व: सदा ।
नाव: समनुकर्षध्वं तारयिष्याम वाहिनीम्

uttiṣṭhata prabudhyadhvaṃ bhadramastu ca va: sadā |
nāva: samanukarṣadhvaṃ tārayiṣyāma vāhinīm

89.10

ते तथोक्ता: समुत्थाय त्वरिता राजशासनात् ।
पञ्च नावां शतान्याशु समानिन्यु: समन्तत:

te tathoktā: samutthāya tvaritā rājaśāsanāt |
pañca nāvāṃ śatānyāśu samāninyu: samantata:

89.11

अन्या: स्वस्तिकविज्ञेया महाघण्टाधरा वरा: ।
शोभमाना: पताकाभिर्युक्तवाता: सुसंहता:

anyā: svastikavijñeyā mahāghaṇṭādharā varā: |
śobhamānā: patākābhiryuktavātā: susaṃhatā:

89.12

तत: स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् ।
सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत् ।
तामारुरोह भरत: शत्रुघ्नश्च महाबल:

tata: svastikavijñeyāṃ pāṇḍukambalasaṃvṛtām |
sanandighoṣāṃ kalyāṇīṃ guho nāvamupāharat |
tāmāruroha bharata: śatrughnaśca mahābala:

89.13

कौसल्या च सुमित्रा च याश्चान्या राजयोषित: ।
पुरोहितश्च तत्पूर्वं गुरवो ब्राह्मणाश्च ये ।
अनन्तरं राजदारास्तथैव शकटापणा:

kausalyā ca sumitrā ca yāścānyā rājayoṣita: |
purohitaśca tatpūrvaṃ guravo brāhmaṇāśca ye |
anantaraṃ rājadārāstathaiva śakaṭāpaṇā:

89.14

आवासमादीपयतां तीर्थं चाप्यवगाहताम् ।
भाण्डानि चाददानानां घोषस्त्रिदिवमस्पृशत्

āvāsamādīpayatāṃ tīrthaṃ cāpyavagāhatām |
bhāṇḍāni cādadānānāṃ ghoṣastridivamaspṛśat

89.15

पताकिन्यस्तु ता नाव: स्वयं दाशैरधिष्ठिता: ।
वहन्त्यो जनमारूढं तदा सम्पेतुराशुगा:

patākinyastu tā nāva: svayaṃ dāśairadhiṣṭhitā: |
vahantyo janamārūḍhaṃ tadā sampeturāśugā:

89.16

नारीणामभिपूर्णास्तु काश्चित् काश्चिच्च वाजिनाम् ।
काश्चिदत्र वहन्ति स्म यानयुग्यं महाधनम्

nārīṇāmabhipūrṇāstu kāścit kāścicca vājinām |
kāścidatra vahanti sma yānayugyaṃ mahādhanam

89.17

ता: स्म गत्वा परं तीरमवरोप्य च तं जनम् ।
निवृत्ता: काण्डचित्राणि क्रियन्ते दाशबन्धुभि:

tā: sma gatvā paraṃ tīramavaropya ca taṃ janam |
nivṛttā: kāṇḍacitrāṇi kriyante dāśabandhubhi:

89.18

सवैजयन्तास्तु गजा गजारोहप्रचोदिता: ।
तरन्त: स्म प्रकाशन्ते सध्वजा इव पर्वता:

savaijayantāstu gajā gajārohapracoditā: |
taranta: sma prakāśante sadhvajā iva parvatā:

89.19

नावश्चारुरुहुश्चान्ये प्लवैस्तेरुस्तथापरे ।
अन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभि:

nāvaścāruruhuścānye plavaisterustathāpare |
anye kumbhaghaṭaisteruranye teruśca bāhubhi:

89.20

सा पुण्या ध्वजिनी गङ्गा दाशै: सन्तारिता स्वयम् ।
मैत्रे मुहूर्त्ते प्रययौ प्रयागवनमुत्तमम्

sā puṇyā dhvajinī gaṅgā dāśai: santāritā svayam |
maitre muhūrtte prayayau prayāgavanamuttamam

89.21

आश्वासयित्वा च चमूं महात्मा निवेशयित्वा च यथोपजोषम् ।
द्रष्टुं भरद्वाजमृषिप्रवर्य्यमृत्विग्वृत: सन् भरत: प्रतस्थे

āśvāsayitvā ca camūṃ mahātmā niveśayitvā ca yathopajoṣam |
draṣṭuṃ bharadvājamṛṣipravaryyamṛtvigvṛta: san bharata: pratasthe

89.22

स ब्राह्मणस्याश्रममभ्युपेत्य महात्मनो देवपुरोहितस्य ।
ददर्श रम्योटजवृक्षषण्डं महद्वनं विप्रवरस्य रम्यम्

sa brāhmaṇasyāśramamabhyupetya mahātmano devapurohitasya |
dadarśa ramyoṭajavṛkṣaṣaṇḍaṃ mahadvanaṃ vipravarasya ramyam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)