अरण्यकाण्ड

सर्ग 57: लौटते राम की लक्ष्मण से भेंट

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सप्तपञ्चाशः सर्गः ॥३-५७॥

23 श्लोक · 57 में से 75

इस अध्याय में क्या होता है

लौटते राम की लक्ष्मण से भेंट

मारीच को मारकर श्रीराम सीता को देखने की उत्सुकता से शीघ्र लौटते हैं। पीछे एक सियार कर्कश स्वर में रोता है और वे बेचैन हो उठते हैं। वे सोचते हैं: मृग-रूपी राक्षस मुझे दूर ले गया और मेरे स्वर में 'हा लक्ष्मण' पुकारा; लक्ष्मण ने सुनकर सीता को छोड़ दिया होगा। जनस्थान का बदला चाहने वाले राक्षसों ने उसे हानि पहुँचाई होगी। पक्षी और पशु भयानक स्वर करते उनके बाईं ओर से निकलते हैं। तभी वे लक्ष्मण को उदास और फीके मुख से आते देखते हैं। राम उनका हाथ पकड़कर उलाहना देते हैं कि राक्षसों से भरे वन में सीता को अकेला क्यों छोड़ा। उन्हें डर है कि सीता हर ली गईं या खा ली गईं, और वे बताते हैं कि मृग-जैसा वह राक्षस बड़े श्रम से मारा गया।

57.1

राक्षसं मृगरूपेण चरन्तं कामरूपिणम् ।
निहत्य रामो मारीचं तूर्णं पथि न्यवर्तत

rākṣasaṃ mṛgarūpeṇa carantaṃ kāmarūpiṇam |
nihatya rāmo mārīcaṃ tūrṇaṃ pathi nyavartata

57.2

तस्य संत्वरमाणस्य द्रष्टुकामस्य मैथिलीम् ।
क्रूरस्वनोऽथ गोमायुर्विननादास्य पृष्ठतः

tasya saṃtvaramāṇasya draṣṭukāmasya maithilīm |
krūrasvano'tha gomāyurvinanādāsya pṛṣṭhataḥ

57.3

स तस्य स्वरमाज्ञाय दारुणं रोमहर्षणम् ।
चिन्तयामास गोमायोः स्वरेण परिशङ्कितः

sa tasya svaramājñāya dāruṇaṃ romaharṣaṇam |
cintayāmāsa gomāyoḥ svareṇa pariśaṅkitaḥ

57.4

अशुभं बत मन्येऽहं गोमायुर्वाश्यते यथा ।
स्वस्ति स्यादपि वैदेह्या राक्षसैर्भक्षणं विना

aśubhaṃ bata manye'haṃ gomāyurvāśyate yathā |
svasti syādapi vaidehyā rākṣasairbhakṣaṇaṃ vinā

57.5

मारीचेन तु विज्ञाय स्वरमालक्ष्य मामकम् ।
विक्रुष्टं मृगरूपेण लक्ष्मणः शृणुयाद् यदि

mārīcena tu vijñāya svaramālakṣya māmakam |
vikruṣṭaṃ mṛgarūpeṇa lakṣmaṇaḥ śṛṇuyād yadi

57.6

स सौमित्रिः स्वरं श्रुत्वा तां च हित्वाथ मैथिलीम् ।
तयैव प्रहितः क्षिप्रं मत्सकाशमिहैष्यति

sa saumitriḥ svaraṃ śrutvā tāṃ ca hitvātha maithilīm |
tayaiva prahitaḥ kṣipraṃ matsakāśamihaiṣyati

57.7

राक्षसैः सहितैर्नूनं सीताया ईप्सितो वधः ।
काञ्चनश्च मृगो भूत्वा व्यपनीयाश्रमात्तु माम्

rākṣasaiḥ sahitairnūnaṃ sītāyā īpsito vadhaḥ |
kāñcanaśca mṛgo bhūtvā vyapanīyāśramāttu mām

57.8

दूरं नीत्वाथ मारीचो राक्षसोऽभूच्छराहतः ।
हा लक्ष्मण हतोऽस्मीति यद्वाक्यं व्याजहार ह

dūraṃ nītvātha mārīco rākṣaso'bhūccharāhataḥ |
hā lakṣmaṇa hato'smīti yadvākyaṃ vyājahāra ha

57.9

अपि स्वस्ति भवेद् द्वाभ्यां रहिताभ्यां मया वने ।
जनस्थाननिमित्तं हि कृतवैरोऽस्मि राक्षसैः

api svasti bhaved dvābhyāṃ rahitābhyāṃ mayā vane |
janasthānanimittaṃ hi kṛtavairo'smi rākṣasaiḥ

57.10

निमित्तानि च घोराणि दृश्यन्तेऽद्य बहूनि च ।
इत्येवं चिन्तयन् रामः श्रुत्वा गोमायुनिःस्वनम्

nimittāni ca ghorāṇi dṛśyante'dya bahūni ca |
ityevaṃ cintayan rāmaḥ śrutvā gomāyuniḥsvanam

57.11

निवर्तमानस्त्वरितो जगामाश्रममात्मवान् ।
आत्मनश्चापनयनं मृगरूपेण रक्षसा

nivartamānastvarito jagāmāśramamātmavān |
ātmanaścāpanayanaṃ mṛgarūpeṇa rakṣasā

57.12

आजगाम जनस्थानं राघवः परिशङ्कितः ।
तं दीनमानसं दीनमासेदुर्मृगपक्षिणः

ājagāma janasthānaṃ rāghavaḥ pariśaṅkitaḥ |
taṃ dīnamānasaṃ dīnamāsedurmṛgapakṣiṇaḥ

57.13

सव्यं कृत्वा महात्मानं घोरांश्च ससृजुः स्वरान् ।
तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः ।
न्यवर्तताथ त्वरितो जवेनाश्रममात्मनः

savyaṃ kṛtvā mahātmānaṃ ghorāṃśca sasṛjuḥ svarān |
tāni dṛṣṭvā nimittāni mahāghorāṇi rāghavaḥ |
nyavartatātha tvarito javenāśramamātmanaḥ

57.14

ततो लक्ष्मणमायान्तं ददर्श विगतप्रभम् ।
ततोऽविदूरे रामेण समीयाय स लक्ष्मणः

tato lakṣmaṇamāyāntaṃ dadarśa vigataprabham |
tato'vidūre rāmeṇa samīyāya sa lakṣmaṇaḥ

57.15

विषण्णः सन् विषण्णेन दुःखितो दुःखभागिना ।
स जगर्हेऽथ तं भ्राता दृष्ट्वा लक्ष्मणमागतम्

viṣaṇṇaḥ san viṣaṇṇena duḥkhito duḥkhabhāginā |
sa jagarhe'tha taṃ bhrātā dṛṣṭvā lakṣmaṇamāgatam

57.16

विहाय सीतां विजने वने राक्षससेविते ।
गृहीत्वा च करं सव्यं लक्ष्मणं रघुनन्दनः

vihāya sītāṃ vijane vane rākṣasasevite |
gṛhītvā ca karaṃ savyaṃ lakṣmaṇaṃ raghunandanaḥ

57.17

उवाच मधुरोदर्कमिदं परुषमार्तवत् ।
अहो लक्ष्मण गर्ह्यं ते कृतं यत् त्वं विहाय ताम्

uvāca madhurodarkamidaṃ paruṣamārtavat |
aho lakṣmaṇa garhyaṃ te kṛtaṃ yat tvaṃ vihāya tām

57.18

सीतामिहागतः सौम्य कच्चित् स्वस्ति भवेदिति ।
न मेऽस्ति संशयो वीर सर्वथा जनकात्मजा

sītāmihāgataḥ saumya kaccit svasti bhavediti |
na me'sti saṃśayo vīra sarvathā janakātmajā

57.19

विनष्टा भक्षिता वापि राक्षसैर्वनचारिभिः ।
अशुभान्येव भूयिष्ठं यथा प्रादुर्भवन्ति मे

vinaṣṭā bhakṣitā vāpi rākṣasairvanacāribhiḥ |
aśubhānyeva bhūyiṣṭhaṃ yathā prādurbhavanti me

57.20

अपि लक्ष्मण सीतायाः सामग्र्यं प्राप्नुयामहे ।
जीवन्त्याः पुरुषव्याघ्र सुताया जनकस्य वै

api lakṣmaṇa sītāyāḥ sāmagryaṃ prāpnuyāmahe |
jīvantyāḥ puruṣavyāghra sutāyā janakasya vai

57.21

यथा वै मृगसंघाश्च गोमायुश्चैव भैरवम् ।
वाश्यन्ते शकुनाश्चापि प्रदीप्तामभितो दिशम् ।
अपि स्वस्ति भवेत् तस्या राजपुत्र्या महाबल

yathā vai mṛgasaṃghāśca gomāyuścaiva bhairavam |
vāśyante śakunāścāpi pradīptāmabhito diśam |
api svasti bhavet tasyā rājaputryā mahābala

57.22

इदं हि रक्षो मृगसंनिकाशं
प्रलोभ्य मां दूरमनुप्रयातम् ।
हतं कथंचिन्महता श्रमेण
स राक्षसोऽभून्म्रियमाण एव

idaṃ hi rakṣo mṛgasaṃnikāśaṃ
pralobhya māṃ dūramanuprayātam |
hataṃ kathaṃcinmahatā śrameṇa
sa rākṣaso'bhūnmriyamāṇa eva

57.23

मनश्च मे दीनमिहाप्रहृष्टं
चक्षुश्च सव्यं कुरुते विकारम् ।
असंशयं लक्ष्मण नास्ति सीता
हृता मृता वा पथि वर्तते वा

manaśca me dīnamihāprahṛṣṭaṃ
cakṣuśca savyaṃ kurute vikāram |
asaṃśayaṃ lakṣmaṇa nāsti sītā
hṛtā mṛtā vā pathi vartate vā

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)