तथैवोत्क्रमतां स्थानं शृणुष्वावहितो नृप ।
पद्भ्यामुत्क्रममाणस्य वैष्णवं स्थानमुच्यते
tathaivotkramatāṃ sthānaṃ śṛṇuṣvāvahito nṛpa |
padbhyāmutkramamāṇasya vaiṣṇavaṃ sthānamucyate
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्वाविंशत्यधिकत्रिशततमोऽध्यायः ॥
21 श्लोक · 322 में से 372
याज्ञवल्क्य बताते हैं कि देह के जिस अंग से प्राण निकलते हैं उसी के अनुसार गति होती है। पैरों से निकलने पर विष्णु का स्थान मिलता है, पिंडलियों से वसु देवता, घुटनों से साध्य, पायु से मित्र, भुजाओं से इन्द्र, छाती से रुद्र, गले से मुनिश्रेष्ठ नर, नेत्रों से सूर्य, ललाट से पितर और मस्तक से ब्रह्मा। फिर मृत्यु के लक्षण। जो अरुन्धती या ध्रुव तारा न देख सके, वह एक वर्ष जीता है। जिसका रंग काला पड़ जाए, वह छह मास। जिसे शव की गन्ध आए, वह सात दिन। सिर से धुआँ उठे तो तुरन्त मृत्यु। यह जानकर ज्ञानी दिन रात स्वयं को परमात्मा में जोड़ता है और योग से मृत्यु को जीतता है।
याज्ञवल्क्य उवाच
तथैवोत्क्रमतां स्थानं शृणुष्वावहितो नृप ।
पद्भ्यामुत्क्रममाणस्य वैष्णवं स्थानमुच्यते
tathaivotkramatāṃ sthānaṃ śṛṇuṣvāvahito nṛpa |
padbhyāmutkramamāṇasya vaiṣṇavaṃ sthānamucyate
जङ्घाभ्यां तु वसून्देवानाप्नुयादिति नः श्रुतम् ।
जानुभ्यां च महाभागान्साध्यान्देवानवाप्नुयात्
jaṅghābhyāṃ tu vasūndevānāpnuyāditi naḥ śrutam |
jānubhyāṃ ca mahābhāgānsādhyāndevānavāpnuyāt
पायुनोत्क्रममाणस्तु मैत्रं स्थानमवाप्नुयात् ।
पृथिवीं जघनेनाथ ऊरुभ्यां च प्रजापतिम्
pāyunotkramamāṇastu maitraṃ sthānamavāpnuyāt |
pṛthivīṃ jaghanenātha ūrubhyāṃ ca prajāpatim
पार्श्वाभ्यां मरुतो देवान्नासाभ्यामिन्दुमेव च ।
बाहुभ्यामिन्द्रमित्याहुरुरसा रुद्रमेव च
pārśvābhyāṃ maruto devānnāsābhyāmindumeva ca |
bāhubhyāmindramityāhururasā rudrameva ca
ग्रीवया तु मुनिश्रेष्ठं नरमाप्नोत्यनुत्तमम् ।
विश्वेदेवान्मुखेनाथ दिशः श्रोत्रेण चाप्नुयात्
grīvayā tu muniśreṣṭhaṃ naramāpnotyanuttamam |
viśvedevānmukhenātha diśaḥ śrotreṇa cāpnuyāt
घ्राणेन गन्धवहनं नेत्राभ्यां सूर्यमेव च ।
भ्रूभ्यां चैवाश्विनौ देवौ ललाटेन पितृनथ
ghrāṇena gandhavahanaṃ netrābhyāṃ sūryameva ca |
bhrūbhyāṃ caivāśvinau devau lalāṭena pitṛnatha
ब्रह्माणमाप्नोति विभुं मूर्ध्ना देवाग्रजं तथा ।
एतान्युत्क्रमणस्थानान्युक्तानि मिथिलेश्वर
brahmāṇamāpnoti vibhuṃ mūrdhnā devāgrajaṃ tathā |
etānyutkramaṇasthānānyuktāni mithileśvara
अरिगनि प्रवक्ष्यामि विहितानि मनीषिभिः ।
संवत्सराद्धिमोक्षस्तु संभवेत शरीरिणः
arigani pravakṣyāmi vihitāni manīṣibhiḥ |
saṃvatsarāddhimokṣastu saṃbhaveta śarīriṇaḥ
योऽरुन्धतीं न पश्येत दृष्टपूर्वा कदाचन ।
तथैव ध्रुवमतित्याहुः पूर्णेन्दुं दीपमेव च
yo'rundhatīṃ na paśyeta dṛṣṭapūrvā kadācana |
tathaiva dhruvamatityāhuḥ pūrṇenduṃ dīpameva ca
खण्डाभासं दक्षिणतस्तेऽपि संवत्सरायुषः ।
परचक्षुषि चात्मानं ये न पश्यन्ति पार्थिवः
khaṇḍābhāsaṃ dakṣiṇataste'pi saṃvatsarāyuṣaḥ |
paracakṣuṣi cātmānaṃ ye na paśyanti pārthivaḥ
आत्मच्छायाकृतीभूतं तेऽपि संवत्सरायुषः ।
अतिद्युतिरतिप्रज्ञा अप्रज्ञा चाद्युतिस्तथा
ātmacchāyākṛtībhūtaṃ te'pi saṃvatsarāyuṣaḥ |
atidyutiratiprajñā aprajñā cādyutistathā
प्रकृतेर्विक्रियापत्तिः षण्मासान्मृत्युलक्षणम् ।
दैवतान्यवजानाति ब्राह्मणैश्च विरुध्यते
prakṛtervikriyāpattiḥ ṣaṇmāsānmṛtyulakṣaṇam |
daivatānyavajānāti brāhmaṇaiśca virudhyate
कृष्णश्यावच्छविच्छायः षण्मासान्मृत्युलक्षणम् ।
शीर्णनाभिं यथा चक्रं छिद्रं सोमं प्रपश्यति
kṛṣṇaśyāvacchavicchāyaḥ ṣaṇmāsānmṛtyulakṣaṇam |
śīrṇanābhiṃ yathā cakraṃ chidraṃ somaṃ prapaśyati
तथैव च सहस्रांशुं सप्तरात्रेण मृत्युभाक् ।
शवगन्धमुपाघ्राति सप्तरात्रेण मृत्युभाक् ।
tathaiva ca sahasrāṃśuṃ saptarātreṇa mṛtyubhāk |
śavagandhamupāghrāti saptarātreṇa mṛtyubhāk |
कर्णनासावनमनं दन्तदृष्टिविरागितां ॥
कर्णनासावनमनं दन्तदृष्टिविरागिता
karṇanāsāvanamanaṃ dantadṛṣṭivirāgitāṃ ||
karṇanāsāvanamanaṃ dantadṛṣṭivirāgitā
संज्ञालोपो निरूष्मत्वं सद्योमृत्युनिदर्शनम् ।
अकस्माच्च स्रवेद्यस्य वाममक्षि नराधिप
saṃjñālopo nirūṣmatvaṃ sadyomṛtyunidarśanam |
akasmācca sravedyasya vāmamakṣi narādhipa
मूर्ध्रतश्चोत्पतेद्धूमः सद्योमृत्युनिदर्शनम् ।
एतावन्ति त्वरिष्टानि विदित्वा मानवोऽऽत्मवान्
mūrdhrataścotpateddhūmaḥ sadyomṛtyunidarśanam |
etāvanti tvariṣṭāni viditvā mānavo''tmavān
निशि चाहनि चात्मानं योजयेत्परमात्मनि ।
प्रतीक्षमाणस्तत्कालं यः कालः प्रकृतो भवेत्
niśi cāhani cātmānaṃ yojayetparamātmani |
pratīkṣamāṇastatkālaṃ yaḥ kālaḥ prakṛto bhavet
अथास्य नेष्टं मरणं स्थातुमिच्छेदिमां क्रियाम् ।
सर्वगन्धान्रसांश्चैव धारयीत समाहितः
athāsya neṣṭaṃ maraṇaṃ sthātumicchedimāṃ kriyām |
sarvagandhānrasāṃścaiva dhārayīta samāhitaḥ
तथा मृत्युमुपादाय तत्परेणान्दरात्मना ।
स साङ्ख्यधारणं चैव विदित्वा मनुजर्षभ ।
जयेच्च मृत्युं योगेन तत्परेणान्तरात्मना
tathā mṛtyumupādāya tatpareṇāndarātmanā |
sa sāṅkhyadhāraṇaṃ caiva viditvā manujarṣabha |
jayecca mṛtyuṃ yogena tatpareṇāntarātmanā
गच्छेत्प्राप्याक्षयं कृत्स्नमजन्म शिवमव्ययम् ।
शाश्वतं स्थानमचलं दुष्प्रापमकृतात्मभिः
gacchetprāpyākṣayaṃ kṛtsnamajanma śivamavyayam |
śāśvataṃ sthānamacalaṃ duṣprāpamakṛtātmabhiḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)