भीष्म पर्व

अध्याय 40: गीता अध्याय १६: दैवी और आसुरी सम्पदा

इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि चत्वारिंशोऽध्यायः ॥

24 श्लोक · 40 में से 122

इस अध्याय में क्या होता है

गीता अध्याय १६: दैवी और आसुरी सम्पदा

श्रीकृष्ण दैवी सम्पदा के लक्षण गिनाते हैं: अभय, अन्तःकरण की शुद्धि, दान, दम, स्वाध्याय, तप, सत्य, अहिंसा, अक्रोध, दया, क्षमा और अभिमान का अभाव। दम्भ, दर्प, क्रोध और कठोरता आसुरी सम्पदा है। दैवी सम्पदा मुक्ति देती है, आसुरी बन्धन; अर्जुन दैवी सम्पदा में जन्मे हैं, शोक न करें। आसुरी लोग कहते हैं कि जगत असत्य और ईश्वररहित है। आशा की सैकड़ों फाँसों में बँधे वे अन्याय से धन जोड़ते हैं और मारे गए शत्रुओं की डींग मारते हैं। ऐसे क्रूर मनुष्यों को वे बार बार आसुरी योनियों में डालते हैं। काम, क्रोध और लोभ नरक के तीन द्वार हैं। जो शास्त्रविधि छोड़कर मनमाना आचरण करता है, उसे न सिद्धि मिलती है न सुख। इसलिए शास्त्र ही प्रमाण है।

श्रीभगवानुवाच

40.1

अभयं सत्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्

abhayaṃ satvasaṃśuddhirjñānayogavyavasthitiḥ |
dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam

40.2

अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।
दया भूतेष्वलोलुत्वं मार्दवं ह्रीरचापलम्

ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam |
dayā bhūteṣvalolutvaṃ mārdavaṃ hrīracāpalam

40.3

तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।
भवन्ति संपदं दैवीमभिजातस्य भारत

tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā |
bhavanti saṃpadaṃ daivīmabhijātasya bhārata

40.4

दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ।
अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम्

dambho darpo'bhimānaśca krodhaḥ pāruṣyameva ca |
ajñānaṃ cābhijātasya pārtha saṃpadamāsurīm

40.5

दैवी संपद्विमोक्षाय निबन्धायासुरी मता ।
मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव

daivī saṃpadvimokṣāya nibandhāyāsurī matā |
mā śucaḥ saṃpadaṃ daivīmabhijāto'si pāṇḍava

40.6

द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च ।
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु

dvau bhūtasargau loke'smindaiva āsura eva ca |
daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu

40.7

प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते

pravṛttiṃ ca nivṛttiṃ ca janā na vidurāsurāḥ |
na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate

40.8

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
अपरस्परसंभूतं किमन्यत्कामहैतुकम्

asatyamapratiṣṭhaṃ te jagadāhuranīśvaram |
aparasparasaṃbhūtaṃ kimanyatkāmahaitukam

40.9

एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः

etāṃ dṛṣṭimavaṣṭabhya naṣṭātmāno'lpabuddhayaḥ |
prabhavantyugrakarmāṇaḥ kṣayāya jagato'hitāḥ

40.10

काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।
मोहाद्गृहीत्वाऽसद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः

kāmamāśritya duṣpūraṃ dambhamānamadānvitāḥ |
mohādgṛhītvā'sadgrāhānpravartante'śucivratāḥ

40.11

चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ।
कामोपभोगपरमा एतावदिति निश्चिताः

cintāmaparimeyāṃ ca pralayāntāmupāśritāḥ |
kāmopabhogaparamā etāvaditi niścitāḥ

40.12

आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।
ईहन्तो कामभोगार्थमन्यायेनार्थसंचयान्

āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ |
īhanto kāmabhogārthamanyāyenārthasaṃcayān

40.13

इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् ।
इदमस्तीदमपि मे भविष्यति पुनर्धनम्

idamadya mayā labdhamimaṃ prāpsye manoratham |
idamastīdamapi me bhaviṣyati punardhanam

40.14

असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी

asau mayā hataḥ śatrurhaniṣye cāparānapi |
īśvaro'hamahaṃ bhogī siddho'haṃ balavānsukhī

40.15

आढ्योऽभिजनवानस्मि कोऽन्योस्ति सदृशो मया ।
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः

āḍhyo'bhijanavānasmi ko'nyosti sadṛśo mayā |
yakṣye dāsyāmi modiṣya ityajñānavimohitāḥ

40.16

अनेकचित्तविभ्रान्त मोहजालसमावृताः ।
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ

anekacittavibhrānta mohajālasamāvṛtāḥ |
prasaktāḥ kāmabhogeṣu patanti narake'śucau

40.17

आत्मसंभाविताः स्तब्धा धनमानमदान्विताः ।
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम्

ātmasaṃbhāvitāḥ stabdhā dhanamānamadānvitāḥ |
yajante nāmayajñaiste dambhenāvidhipūrvakam

40.18

अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः ।
मामत्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः

ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ |
māmatmaparadeheṣu pradviṣanto'bhyasūyakāḥ

40.19

तानहं द्विषतः क्रूरान्संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु

tānahaṃ dviṣataḥ krūrānsaṃsāreṣu narādhamān |
kṣipāmyajasramaśubhānāsurīṣveva yoniṣu

40.20

आसुरीं योनिमापन्ना मूढा जन्मनिजन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्

āsurīṃ yonimāpannā mūḍhā janmanijanmani |
māmaprāpyaiva kaunteya tato yāntyadhamāṃ gatim

40.21

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत्रयं त्यजेत्

trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ |
kāmaḥ krodhastathā lobhastasmādetatrayaṃ tyajet

40.22

एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः ।
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम्

etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ |
ācaratyātmanaḥ śreyastato yāti parāṃ gatim

40.23

यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।
न स सिद्धिमवाप्नोति न सुखं न परां गतिम्

yaḥ śāstravidhimutsṛjya vartate kāmakārataḥ |
na sa siddhimavāpnoti na sukhaṃ na parāṃ gatim

40.24

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि

tasmācchāstraṃ pramāṇaṃ te kāryākāryavyavasthitau |
jñātvā śāstravidhānoktaṃ karma kartumihārhasi

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)